मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् ३

संहिता

स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य॑म् ।
वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥

पदपाठः

स॒मा॒नम् । अ॒स्मै॒ । अन॑पऽवृत् । अ॒र्च॒ । क्ष्म॒या । दि॒वः । अस॑मम् । ब्रह्म॑ । नव्य॑म् ।
वि । यः । पृ॒ष्ठाऽइ॑व । जनि॑मानि । अ॒र्यः । इन्द्रः॑ । चि॒काय॑ । न । सखा॑यम् । ई॒षे ॥

सायणभाष्यम्

हे स्तोतः त्वं समानं मया सहानपावृदपगतिरहितं क्ष्मया दिवो दिवः पृथिव्याश्चासममत्यनत्मतिरिक्तम्। महदित्यर्थः। नव्यं नवतरमन्यैरकृतपुर्वं ब्रह्मस्तोत्रमस्मा इन्द्रायार्च। उच्चारय। य इन्द्रो जनिमानि यज्ञे यज्ञे जातानि पृष्थेव पृष्ठसंज्ञकानि स्तोत्राणीवार्योऽरीञ्शत्रून्वि चिकाय विचिनोति सखायं च नेषे निच्छति॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४