मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् ५

संहिता

आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒ः शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी ।
सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥

पदपाठः

आपा॑न्तऽमन्युः । तृ॒पल॑ऽप्रभर्मा । धुनिः॑ । शिमी॑ऽवान् । शरु॑ऽमान् । ऋ॒जी॒षी ।
सोमः॑ । विश्वा॑नि । अ॒त॒सा । वना॑नि । न । अ॒र्वाक् । इन्द्र॑म् । प्र॒ति॒ऽमाना॑नि । दे॒भुः॒ ॥

सायणभाष्यम्

आपान्तमन्युरापातितमन्युस्तृपलप्रभर्मा ग्रावादिभिः क्षिप्रप्रहारी धुन्निशत्रूणाम् कम्पयिता शिमीवान् कर्मवाञ्शरुमानायुधवानृजीष्यृजीषवान् सोमो विश्वानि सर्वाण्यतसातसमयानि वनान्यरण्यानि वर्धयतीति शेषः। प्रतिमानानि प्रतिमानभूतानि। समानानि द्रव्याणीत्यर्थः। इन्द्रमर्वाग्न देभुः। दभ्नोतिरत्राकर्षणकर्मा। तुलया मीयमानान्यात्माभिमुखतया नाकर्षयन्ति। लघूनि भवन्तीत्यर्थः। अन्यत्र प्रतिनिधीयमानानि पुरूणि तान्यात्माभिमुखमाकर्षन्ति नैवमिन्द्रं कुर्वन्तीति। सर्वेभ्यो महानिन्द्र इत्यर्थः। त्रयः पादाः स्ॐयास्तुरीयस्त्वैन्द्रः। तथा च यास्कः। अपातितमन्युस्तृप्रप्रहारी क्षिप्रप्रहारी सोमो वेन्द्रो वा धुनिर्धूनोतेः शिमीति कर्मनाम शमयतेर्वा शक्नोतेर्वर्जीषी सोमो यत्सोमस्य पूयमानस्यातिरिच्यते तदृजीषमपार्जितं भवति तेनर्जीषी सोमोऽधाप्यैन्द्रो निगमो भवत्यृजीषी वज्रीति। सोमः सर्वाण्यतसानि वनानि नार्वागिन्द्रं प्रतिमानानि दभ्नुवन्ति यैरेनं प्रतिमिमते नैनं तानि दभ्नुवन्ति। नि. ५-१२। इति॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४