न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑य॒ः सोमो॑ अक्षाः ।
यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥
न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । न । धन्व॑ । न । अ॒न्तरि॑क्षम् । न । अद्र॑यः । सोमः॑ । अ॒क्षा॒रिति॑ ।
यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒ऽनी॒यमा॑नः । शृ॒णाति॑ । वी॒ळु । रु॒जति॑ । स्थि॒राणि॑ ॥
द्यावापृथिवी द्यावापृथिव्यौ यस्येन्द्रस्य प्रतिमानभूते न भवतः। न धन्व। उदकमपि प्रतिमानभूतं न भवति। नान्तरिक्षम्। अन्तरिक्षमपि प्रतिमानभूतं न भवति। नाद्रयः। पर्वताश्च प्रतिमानभूता न भवन्ति। तस्येन्द्रस्य सोमोऽक्षाः। क्शरति। किञ्च यद्यदास्येन्द्रस्य मन्युः क्रोधोऽधिनीयमानः शत्रूणामुपरि प्राप्यमाणो भवति तदानीमयमिन्द्रो वीळु दृढं शृणाति। हिनस्ति। स्थिराणि रुजति। भिनत्ति च॥६॥