मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् ७

संहिता

ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् ।
बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो॑ अकृणुत स्व॒युग्भि॑ः ॥

पदपाठः

ज॒घान॑ । वृ॒त्रम् । स्वऽधि॑तिः । वना॑ऽइव । रु॒रोज॑ । पुरः॑ । अर॑दत् । न । सिन्धू॑न् ।
बि॒भेद॑ । गि॒रिम् । नव॑म् । इत् । न । कु॒म्भम् । आ । गाः । इन्द्रः॑ । अ॒कृ॒णु॒त॒ । स्व॒युक्ऽभिः॑ ॥

सायणभाष्यम्

इन्द्रो वृत्रमसुरं जघान। हतवान्। अपि च स्वधितिः परशुर्वनेव वनानीव पुरः शत्रुनगरी रुरोज। रुजति। भिनत्ति। शत्रुनगरीर्भित्त्वा च सिन्धून्नदीररदत्। वृष्ट्युदकेनालिखत्। नेति सप्म्रत्यर्थे। किञ्च गिरिं मेघं नवं न नवमिव कुम्भं कलशं बिभेदेत्। भिनत्त्येव। किञ्चेन्द्रः स्वयुग्भिः स्वयं युज्यमानैर्मरुद्भिर्गा उदकान्याकृणुत। अस्मदभिमुखं करोति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५