मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् ८

संहिता

त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि ।
प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ॥

पदपाठः

त्वम् । ह॒ । त्यत् । ऋ॒ण॒ऽयाः । इ॒न्द्र॒ । धीरः॑ । अ॒सिः । न । पर्व॑ । वृ॒जि॒ना । शृ॒णा॒सि॒ ।
प्र । ये । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । युज॑म् । न । जनाः॑ । मि॒नन्ति॑ । मि॒त्रम् ॥

सायणभाष्यम्

इन्द्र धीरः प्राज्ञस्त्वं ह त्वं खलु त्यत्तदृणयाः स्तोतृविषयाणामृणानां प्रापयितासि। किञ्च त्वमसिर्न शस्त्रमिव पर्व पशूनां पर्वाणि वृजिना वृजिनानि स्तोतॄणामुपद्रवाणि शृणासि। हंसि। किञ्च मित्रस्य वरुणस्य मित्रावरुणयोर्धाम धारकं कर्म युजं न युक्तमिव मित्रं येऽज्ञा नृशंसा जनाः प्र मिनन्ति प्रकर्षॆण हिंसन्ति तानपि शृणासीत्यर्थः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५