मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १०

संहिता

इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् ।
इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्र॒ः क्षेमे॒ योगे॒ हव्य॒ इन्द्र॑ः ॥

पदपाठः

इन्द्रः॑ । दि॒वः । इन्द्रः॑ । ई॒शे॒ । पृ॒थि॒व्याः । इन्द्रः॑ । अ॒पाम् । इन्द्रः॑ । इत् । पर्व॑तानाम् ।
इन्द्रः॑ । वृ॒धाम् । इन्द्रः॑ । इत् । मेधि॑राणाम् । इन्द्रः॑ । क्षेमे॑ । योगे॑ । हव्यः॑ । इन्द्रः॑ ॥

सायणभाष्यम्

दिवो द्युलोकस्येन्द्र ईशे। ईष्टे। पृथिव्या भूमेरपीन्द्र ईशे। ईश्वरो भवति। अपामुदकानामपीन्द्र ईश्वरो भवति। पर्वतानां मेघानामपीन्द्र ईश्वरो भवति। वृधां वृद्धानामपीन्द्र एवेश्वरः। मेधिराणां प्राज्ञानमपीन्द्र एवेश्वरो भवति। किञ्चेन्द्रः क्षेमे लब्धस्य धनस्य परिपालने हव्यो ह्वातव्यो योगेऽलब्धस्य धनस्य लाभेऽपीन्द्र एव ह्वातव्यो भवति॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५