मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १२

संहिता

प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः ।
अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥

पदपाठः

प्र । शोशु॑चत्याः । उ॒षसः॑ । न । के॒तुः । अ॒सि॒न्वा । ते॒ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । हे॒तिः ।
अश्मा॑ऽइव । वि॒ध्य॒ । दि॒वः । आ । सृ॒जा॒नः । तपि॑ष्ठेन । हेष॑सा । द्रोघ॑ऽमित्रान् ॥

सायणभाष्यम्

हे इन्द्र ते तवसिन्वा भेदनरहितं हेतिर्वज्राख्यमायुधं शोशुचत्या ज्वलन्त्या उषसो न यथोषसः केतुः पताकस्थानीयो रश्मिस्तद्वच्छत्रुषु प्रवर्तताम्। किञ्च तपिष्थेनातिशयेन शत्रूणां तापयित्र्या हेषसा शब्दकारिण्या हेत्याद्रोघमित्रान् द्रुग्धानि मित्राणि येषां ते द्रोघमित्राः। ताञ्शत्रून्विध्य ताडय तत्र। दृष्टान्तः। दिव आ सृजानः सृज्यमानोऽश्मेव। यथाशनिर्वृक्षान्विध्यति तद्वदित्यर्थः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६