मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १४

संहिता

कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।
मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ॥

पदपाठः

कर्हि॑ । स्वि॒त् । सा । ते॒ । इ॒न्द्र॒ । चे॒त्या । अ॒स॒त् । अ॒घस्य॑ । यत् । भि॒नदः॑ । रक्षः॑ । आ॒ऽईष॑त् ।
मि॒त्र॒ऽक्रुवः॑ । यत् । शस॑ने । न । गावः॑ । पृ॒थि॒व्याः । आ॒ऽपृक् । अ॒मु॒या । शय॑न्ते ॥

सायणभाष्यम्

हे इन्द्र ते तव सा हेतिरिषुर्वा चेत्या चेतयितव्या शत्रुषु क्शेप्तव्या कर्हि स्वित् कदा वासत्। भविष्यति। यद्यदा हेत्या त्वमघस्य। द्वितीयार्थे षष्ठी। अहतमेषद्युद्धार्थमागच्छद्रक्षो भिनदः अभिनत्। यद्यदा च शक्त्या मित्रक्रवो मित्राणां क्रूरस्य कर्मणः कर्तारो जनाः पृथिव्याः सम्बन्धिनि शसने विशसनस्थाने गावो न पशव इवपृगापर्चनाहताः सन्तोऽमुयानया पृथिव्या सङ्गता युद्धे शयन्ते शेरते॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६