मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १५

संहिता

श॒त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र ।
अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्यु॑ः ॥

पदपाठः

श॒त्रु॒ऽयन्तः॑ । अ॒भि । ये । नः॒ । त॒त॒स्रे । महि॑ । व्राध॑न्तः । ओ॒ग॒णासः॑ । इ॒न्द्र॒ ।
अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् । सु॒ऽज्यो॒तिषः॑ । अ॒क्तवः॑ । तान् । अ॒भि । स्यु॒रिति॑ स्युः ॥

सायणभाष्यम्

हे इन्द्र शत्रूयन्तो मह्यत्यन्तं व्राधन्तोऽस्मान्बाधमानाः ओगणासः सङ्घीभूता ये शत्रवो नोऽस्मानभि ततस्ते निक्शिपन्ति तेऽमित्राः शत्रवोऽन्धेन तमसा महातान्धकारेण सचन्ताम्। सङ्गच्छन्ताम्। किञ्च तानमित्रान् सुज्योतिषो दिवसा अक्तवो रात्रयश्चाभि ष्युः। अभिभवन्तु॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६