मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १७

संहिता

ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम् ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ॥

पदपाठः

ए॒व । ते॒ । व॒यम् । इ॒न्द्र॒ । भु॒ञ्ज॒ती॒नाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । नवा॑नाम् ।
वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒श्वामि॑त्राः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥

सायणभाष्यम्

हे इन्द्र ते तवैव भुञ्जतीनां रक्षन्तीः प्रिया वयं विश्वामित्रपुत्रा रेनवो विद्याम। लभेमहि। उतापि च हे इन्द्र ते तव नवानां नूतनाः सुमतीनामनुग्रहबुद्धीर्वस्तोरहन्यवसा रक्षणार्थं गृणन्तो नूनं त्वां स्तुवन्त एव विश्वामित्रा विश्वामित्रपुत्रा वयं विद्याम। लभेम॥१७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६