मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १८

संहिता

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥

पदपाठः

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।
शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

सायणभाष्यम्

अस्मिन्भरे सङ्ग्रामे शुनं व्रुद्धं मघवानं धनवन्तं शृण्वन्तमस्मदीयस्याह्वानस्य श्रोतारमुग्रमुद्गूर्णं समत्सु सङ्ग्रामेषु वृत्राणि शत्रून्घ्नन्तं मारयन्तं धनानां शत्रुधनानां सञ्जितं सम्यगेव जेतारमिन्द्रं वाजसातावन्नस्य लाभायोतये रक्षणाय च हुवेम। अह्वयेम॥१९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६