मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् १

संहिता

स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥

पदपाठः

स॒हस्र॑ऽशीर्षा । पुरु॑षः । स॒ह॒स्र॒ऽअ॒क्षः । स॒हस्र॑ऽपात् ।
सः । भूमि॑म् । वि॒श्वतः॑ । वृ॒त्वा । अति॑ । अ॒ति॒ष्ठ॒त् । द॒श॒ऽअ॒ङ्गु॒लम् ॥

सायणभाष्यम्

सहस्रशीर्षेति षोडशर्चं षष्ठम् सूक्तम्। नारायणो नामर्षिरन्त्या त्रिष्तुप् शिष्टा अनुष्तुभः। अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः। वे. सू. १-४-१। पुरुषान्न परं चिञ्चित्। क. उ. ३-११। इत्यादिश्रुतिषु प्रसिद्धः स देवता तथा चानुक्रान्तम्। सहस्रशीर्षा षोडश नारायनह् पौरुषमानुष्तुभं त्रिष्टुबन्तं त्विति। गतो विनियोगः॥

सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्रशीर्षा। सहस्रशब्दस्योपलक्शनत्वादनन्तैः शिरोभिर्युक्त इत्यर्थः। यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तः पातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवं सहस्राक्षित्वं सहस्रपादत्वं च। स पुरुषो भूमिं ब्रह्माण्डगोलकरूपां विश्वतः सर्वतो वृत्वा परिवेष्ट्य दशाङ्गुलं दह्साङ्गुलपरिमितं देशमत्यतिष्थत्। अतिक्रम्य व्यवस्थितः। दहाङ्गुलमियुपलक्षनम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७