मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् ९

संहिता

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋच॒ः सामा॑नि जज्ञिरे ।
छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥

पदपाठः

तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । ऋचः॑ । सामा॑नि । ज॒ज्ञि॒रे॒ ।
छन्दां॑सि । ज॒ज्ञि॒रे॒ । तस्मा॑त् । यजुः॑ । तस्मा॑त् । अ॒जा॒य॒त॒ ॥

सायणभाष्यम्

सर्वहुतस्तस्मात्पूर्वोक्ताद्यज्ञादृचः सामानि जज्ञिरे। उत्पन्नाः। तस्माद्यज्ञा च्छन्दांसि गायत्र्यादीनि जज्ञिरे। तस्माद्यज्ञाद्यजुरप्यजायत॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८