मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् १०

संहिता

तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥

पदपाठः

तस्मा॑त् । अश्वाः॑ । अ॒जा॒य॒न्त॒ । ये । के । च॒ । उ॒भ॒याद॑तः ।
गावः॑ । ह॒ । ज॒ज्ञि॒रे॒ । तस्मा॑त् । तस्मा॑त् । जा॒ताः । अ॒जा॒वयः॑ ॥

सायणभाष्यम्

तस्मात्पूर्वोक्ताद्यज्ञादश्वा अजायन्त। उत्पन्नाः। तथा। ये के चाश्वव्यतिरिक्ता गर्दभा अश्वतराश्चोभयादत ऊर्ध्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति तेऽष्यजायन्त। तथा। तस्माद्यज्ञाद्गावश्च जज्ञिरे। किञ्च तस्माद्यज्ञादजावयश्चजाताः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८