मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् ११

संहिता

यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥

पदपाठः

यत् । पुरु॑षम् । वि । अद॑धुः । क॒ति॒धा । वि । अ॒क॒ल्प॒य॒न् ।
मुख॑म् । किम् । अ॒स्य॒ । कौ । बा॒हू इति॑ । कौ । ऊ॒रू इति॑ । पादौ॑ । उ॒च्ये॒ते॒ इति॑ ॥

सायणभाष्यम्

प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुम् ब्रह्मवादिनां प्रश्ना उच्यन्ते। प्रजापतेः प्रानरूपा देवा यद्यदा पुरुषं विराड्रूपं व्यदधुः सङ्कल्पेनोत्पादितवन्तः तदानीं कतिधा कतिभिः प्रकारैर्व्यकल्पयन्। विविधं कल्पितवन्तः। अस्य पुरुषस्य मुखं किमासीत्। कौ बाहू अभूताम्। का ऊरू। कौ च पादावुच्येते। प्रथमं सामान्यरूपः प्रश्नः पश्चान्मुइखं किमित्यादिना विशेशविशयाः प्रश्नाः॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९