मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् १२

संहिता

ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्य॑ः कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑ः प॒द्भ्यां शू॒द्रो अ॑जायत ॥

पदपाठः

ब्रा॒ह्म॒णः । अ॒स्य॒ । मुख॑म् । आ॒सी॒त् । बा॒हू इति॑ । रा॒ज॒न्यः॑ । कृ॒तः ।
ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ । प॒त्ऽभ्याम् । शू॒द्रः । अ॒जा॒य॒त॒ ॥

सायणभाष्यम्

इदानीं पूर्वोक्तानां प्रश्नानामुत्तरानि दर्शयति। अस्य प्रजापतेर्ब्राह्मणो ब्राह्मणत्वजातिविशिष्टः पुरुषो मुखमासीत्। मुखादुत्पन्न इत्यर्थः। योऽयं राजन्यः क्षत्रियत्वजातिमान्पुरुशः स बाहू कृतः। बाहुत्वेन निष्पादितः। बाहुभ्यामुत्पादित इत्यर्थः। तत्तदानीमस्य प्रजापतेर्यदूरू तद्रूपो वैश्वः सम्पन्नः। ऊरूभ्यामुत्पन्न्त् इत्यर्थः। तथास्य पद्भ्यां पादाभ्यां शूद्रः शूद्रत्वजातिमान्पुरुषोऽजायत। इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुः संहितायां सप्तमकाण्डे स मुखतस्त्रिवृतं निरमिमीत। तै. सं. ७-१-१-४। इत्यादौ विस्पष्टमाम्नाता। अतः प्रश्नोत्तरे उभे अपि तत्परतैव योजनीये॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९