मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् १३

संहिता

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षो॒ः सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥

पदपाठः

च॒न्द्रमाः॑ । मन॑सः । जा॒तः । चक्षोः॑ । सूर्यः॑ । अ॒जा॒य॒त॒ ।
मुखा॑त् । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । प्रा॒णात् । वा॒युः । अ॒जा॒य॒त॒ ॥

सायणभाष्यम्

यथा दध्याज्यादिद्रव्याणि गवादयः पशव ऋगादिवेदा ब्राह्मनादयो मनुष्याश्च तस्मदुत्पन्ना एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह। प्रजापतेर्मनसः सकाशाच्चन्द्रमा जातः। चक्षोश्च चक्शुषः सूर्योऽप्यजायत। अस्य मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ। अस्य प्रानाद्वायुरजायत॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९