मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् १४

संहिता

नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒ः श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥

पदपाठः

नाभ्याः॑ । आ॒सी॒त् । अ॒न्तरि॑क्षम् । शी॒र्ष्णः । द्यौः । सम् । अ॒व॒र्त॒त॒ ।
प॒त्ऽभ्याम् । भूमिः॑ । दिशः॑ । श्रोत्रा॑त् । तथा॑ । लो॒कान् । अ॒क॒ल्प॒य॒न् ॥

सायणभाष्यम्

यथा चन्द्रादीन्प्रजापत्रेमनः प्रभृतिभ्योऽकल्पयन् तथान्तरिक्षादींल्लोकान्प्रजापतेर्नाभ्यादिभ्यो देवा अकल्पयन्। उद्पादितवन्तः। एतदेवदर्शयति। नाभ्याः प्रजापतेर्नाभेरन्तरिक्षमासीत्। शीर्ष्णः शिरसो द्यौः समवर्तत। उत्पन्ना। अस्य पद्भ्यां पादाभ्यां भूमिरुत्पन्ना। अस्य श्रोत्राद्दिश उत्पन्नाः॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९