मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् १५

संहिता

स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥

पदपाठः

स॒प्त । अ॒स्य॒ । आ॒स॒न् । प॒रि॒ऽधयः॑ । त्रिः । स॒प्त । स॒म्ऽइधः॑ । कृ॒ताः ।
दे॒वाः । यत् । य॒ज्ञम् । त॒न्वा॒नाः । अब॑ध्नन् । पुरु॑षम् । प॒शुम् ॥

सायणभाष्यम्

अस्य साङ्कल्पिकयज्ञस्य गायत्र्यादीनि सप्त च्छन्दांसि परिधय आसन्। ऐष्टिकस्याहवनीयस्य त्रयः परिधय उत्तरवेदिकास्त्रय आदित्यश्च सप्तमः परिधिप्रतिनिधिरूपः। अत एवाम्नायते। न पुरस्तात्परिदध्यादादिदित्यो ह्येवोद्यन्पुरस्ताद्रक्षाम्स्यपहन्तीति। तत एत आदित्यसहिताः सप्त परिधयोऽत्र सप्त च्छन्दोरुपाः। तथा समिधस्त्रिः सप्त त्रिगुणीकृतसप्तसङ्ख्याका एकविंशतिः कृताः। द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः। तै. सं. ५-१-१०-३। इति श्रुताः पदार्था एकविंशतिदारुयुक्तेन्धनत्वेन भाविताः। यद्यः पुरुषो वैराजोऽस्ति तं पुरुशं देवाः प्रजापतिप्राणेन्द्रियरूपा यज्ञं तन्वाना मानसं यज्ञं तन्वानाः कुर्वाणाः पशुमबध्नन्। विराट् पुरुशमेव पशुत्वेन भावितवन्तः। एतदेवाभिप्रेत्य पूर्वत्र यत्पुरुषेण हविषेत्युक्तम्॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९