मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९०, ऋक् १६

संहिता

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥

पदपाठः

य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ।
ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥

सायणभाष्यम्

पूर्वं प्रपञ्चेनोक्तमर्थं संक्षिप्यात्र दर्शयति। देवाः प्रजापतिप्राणरूपा यज्ञेन यथोक्तेन मानसेन सङ्कल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिमयजन्त। पूजितवन्तः। तस्मात्पूजनात्तानि प्रसिद्धानि धर्माणि जगद्रूपविकारानां धारकाणि प्रथमानि मुख्यान्यासन्। एतावाता सृष्टिप्रतिपादकसूक्तभागार्थः सङ्गृहीतः। अथोपासनतत्फलानुवादकभागार्थः सङ्गृह्यते। यत्र यस्मिन्विराट् प्राप्तिरूपे नाके पूर्वे साध्याः पुरातना विराडुइपास्तिसाधका देवाः सन्ति तिष्ठन्ति तन्नाकं विराट्प्राप्तिरूपं स्वर्गं ते महिमानस्तदुपासका महात्मानः सचन्त। समवयन्ति। प्राप्नुवन्ति॥१७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९