मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् १

संहिता

सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।
विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥

पदपाठः

सम् । जा॒गृ॒वत्ऽभिः॑ । जर॑माणः । इ॒ध्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒षय॑न् । इ॒ळः । प॒दे ।
विश्व॑स्य । होता॑ । ह॒विषः॑ । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒खि॒ऽय॒ते ॥

सायणभाष्यम्

अष्टमेऽनुवाके नव सूक्तानि। सं जागृवद्भिरिति पञ्चदशर्चं प्रथमं सूक्तं वीतहव्यपुत्रस्यारुणनाम्न आर्षमग्निदैवत्यम्। अन्त्या त्रिष्टुप् शिश्टा जगत्यः। तथा चानुक्रान्तम्। सं जागृवद्भिः पञ्चोनारुणो वैतहव्य आग्नेयमिति प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं सूक्तम्। सूत्रितं च। सं जागृवद्भिश्चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतम्। आ. ४-१३। इति॥

हे अग्ने जागृवद्भिर्जागरणशीलैः स्तोतृभिर्जरमाणः स्तूयमानो दमूना दममना दानमना दान्तमना वेळ इळयास्पदे स्थान उत्तरवेद्यामिषयन्नन्नमिच्छन् विश्वस्य सर्वस्य हविषो होता वरेण्यो वरणीयो विभुर्व्याप्तो विभावा दीप्तिमान् सुषखा शोभनसखा भवान् सखीयते सखित्वमिच्छते यजमानाय समिध्यते। सम्यग्दीप्यते॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०