मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् २

संहिता

स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व ।
जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशम् ॥

पदपाठः

सः । द॒र्श॒त॒ऽश्रीः । अति॑थिः । गृ॒हेऽगृ॑हे । वने॑ऽवने । शि॒श्रि॒ये॒ । त॒क्व॒वीःऽइ॑व ।
जन॑म्ऽजनम् । जन्यः॑ । न । अति॑ । म॒न्य॒ते॒ । विशः॑ । आ । क्षे॒ति॒ । वि॒श्यः॑ । विश॑म्ऽविशम् ॥

सायणभाष्यम्

दर्शतश्रीर्दर्शनीयविभूतिरतिथिरतिथिभुतः सोऽग्निर्गृहेगृहे यजमानानां गृहेषु वने वने सर्वेषु वनेषु च शिश्रिये। श्रयति। किञ्च जन्यो जनहितः सोऽग्निर्जनजनं सर्वं जनं तक्ववीरिव गच्छन्निव नाति मन्यते। न विसृज्य गच्छतीत्यर्थः। तदेव दर्शयति। विश्यो विड्भ्यो हितः सोऽग्निर्विशो मनुष्यानाक्षेति। किञ्च विशंविशं सर्वा विशः प्रजा अधितिष्ठतीति शेषः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०