मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् ३

संहिता

सु॒दक्षो॒ दक्षै॒ः क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।
वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥

पदपाठः

सु॒ऽदक्षः॑ । दक्षः॑ । क्रतु॑ना । अ॒सि॒ । सु॒ऽक्रतुः॑ । अग्ने॑ । क॒विः । काव्ये॑न । अ॒सि॒ । वि॒श्व॒ऽवित् ।
वसुः॑ । वसू॑नाम् । क्ष॒य॒सि॒ । त्वम् । एकः॑ । इत् । द्यावा॑ । च॒ । यानि॑ । पृ॒थि॒वी इति॑ । च॒ । पुष्य॑तः ॥

सायणभाष्यम्

हे अग्ने त्वं दक्षैर्बलैः सुदक्षः सुबलोऽसि। भवसि। किञ्च क्रतुना कर्मणा सुक्रतुः शोभनकर्मासि। किञ्च काव्येन मेधाविकर्मणा कविर्मेधाव्यसि। किञ्च विश्ववित्सर्वज्ञोऽसि। किञ्च वसूनां धनानां वसुर्वासयितासि। किञ्च हे अग्ने त्वमेक इदेक एव क्षयसि। निवससि। किञ्च द्यावा च पृथिवी च द्यावाभूमी यानि वसूनि पुष्यतः संवर्धयतः तेषां दिव्यानां पार्थिवानां च धनानामीशिष इत्यर्थः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०