मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् ४

संहिता

प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः ।
आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पस॒ः सूर्य॑स्येव र॒श्मयः॑ ॥

पदपाठः

प्र॒ऽजा॒नन् । अ॒ग्ने॒ । तव॑ । योनि॑म् । ऋ॒त्विय॑म् । इळा॑याः । प॒दे । घृ॒तऽव॑न्तम् । आ । अ॒स॒दः॒ ।
आ । ते॒ । चि॒कि॒त्रे॒ । उ॒षसा॑म्ऽइव । एत॑यः । अ॒रे॒पसः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ ॥

सायणभाष्यम्

हे अग्ने तवर्त्वियमृतौ भवं घृतवन्तं घृतेन सहितं योनिं निवासस्थानमिळायास्पद उत्तरवेद्यां प्रजानंस्त्वमासदः। आसीदसि। किञ्च ते तव रश्मय उषसामिव यथोषसामेतयः प्रज्ञा प्रकाशलक्षणा आगतयो वा। सूर्यस्येव.......॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०