मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् ५

संहिता

तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।
यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥

पदपाठः

तव॑ । श्रियः॑ । व॒र्ष्य॑स्यऽइव । वि॒ऽद्युतः॑ । चि॒त्राः । चि॒कि॒त्रे॒ । उ॒षसा॑म् । न । के॒तवः॑ ।
यत् । ओष॑धीः । अ॒भिऽसृ॑ष्टः । वना॑नि । च॒ । परि॑ । स्व॒यम् । चि॒नु॒षे । अन्न॑म् । आ॒स्ये॑ ॥

सायणभाष्यम्

...... यथा वर्षितुर्मेथस्य सम्बन्धिन्यो विद्युत उषसां न यथा चोषसां केतवः प्रज्ञानास्तत्स्थाः प्रकाशाः प्रज्ञायन्ते तद्वदित्यर्थः। तदेत्यत्राह। यद्यदा त्वमोषधीर्व्रीह्याद्या वनान्यरण्यानि चाभिसृष्टः सृष्टो दग्धुं विस्यष्टः सन् स्वयमात्मनास्ये मुखेऽन्नमदनीयं स्थावरलक्षणं परि चिनुषे। परिक्षिपसीत्यर्थः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०