मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् ६

संहिता

तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तरः॑ ।
तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥

पदपाठः

तम् । ओष॑धीः । द॒धि॒रे॒ । गर्भ॑म् । ऋ॒त्विय॑म् । तम् । आपः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । मा॒तरः॑ ।
तम् । इत् । स॒मा॒नम् । व॒निनः॑ । च॒ । वी॒रुधः॑ । अ॒न्तःऽव॑तीः । च॒ । सुव॑ते । च॒ । वि॒श्वहा॑ ॥

सायणभाष्यम्

ऋत्वियमृतौ प्राप्तं गर्भं गर्भभूतं तं प्रकृतमग्निमोषधीरोषध्यो दधिरे। धारयन्ति। तमेवाग्निं मातरो धारकत्वेन मातृस्थानीया आपश्च जनयन्त। जनयन्ति। किञ्च वनिनो वनस्पतयश्च समानं गर्भभावेन प्रवेशात्स्वतुल्यं तमित्तमेवाग्निं जनयन्ति। किञ्च तमेवाग्निमन्तर्वतीर्गर्भवत्यो वीरुध ओषधयश्च विश्वहा सर्वदा सुवते। जनयन्ति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१