मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् ७

संहिता

वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।
आ ते॑ यतन्ते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥

पदपाठः

वात॑ऽउपधूतः । इ॒षि॒तः । वशा॑न् । अनु॑ । तृ॒षु । यत् । अन्ना॑ । वेवि॑षत् । वि॒ऽतिष्ठ॑से ।
आ । ते॒ । य॒त॒न्ते॒ । र॒थ्यः॑ । यथा॑ । पृथ॑क् । शर्धां॑सि । अ॒ग्ने॒ । अ॒जरा॑णि । धक्ष॑तः ॥

सायणभाष्यम्

हे अग्ने यद्यदा त्वं वातोपधूतो वायुना कम्पितो वशान्कान्तान्वनस्पतीननु प्रति तृषु क्षिप्रमिषितः प्रेरितश्च सन्नन्नान्यदनीयानि वनस्पत्यादीनि स्थावराण् वेविषद्व्याप्नुवन्वितिष्ठसे इतस्ततो गच्छसि तदानीं धक्षत काननानि दहतस्ते तवाजराणि जरारहितानि शर्धांसि तेजांसि यथा रथ्यो रथिनस्तद्वत्पृथगा यतन्ते। गच्छन्ति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१