मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् ८

संहिता

मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिम् ।
तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥

पदपाठः

मे॒धा॒ऽका॒रम् । वि॒दथ॑स्य । प्र॒ऽसाध॑नम् । अ॒ग्निम् । होता॑रम् । प॒रि॒ऽभूत॑मम् । म॒तिम् ।
तम् । इत् । अर्भे॑ । ह॒विषि॑ । आ । स॒मा॒नम् । इत् । तम् । इत् । म॒हे । वृ॒ण॒ते॒ । न । अ॒न्यम् । त्वत् ॥

सायणभाष्यम्

मेधाकारं प्रज्ञायाः कर्तारं विदथस्य यज्ञस्य प्रसाधनं प्रकर्षेण साधकं होतारं देवानामाह्वातारं परिभूतममतिशयेन शत्रूणां परिभवितारं मतिं मन्तारं यं त्वामग्निं वृणीमह इति शेषः। तमित्तमेवाग्निमर्भेऽल्पे हविषि च पुरोडाशादिके हविषि समानमित्सहैवर्त्विज आ वृणते। प्रार्थयन्ते। महे महति सोमात्मके हविष्यपि तमित्तमेवाग्निं वृणते त्वत्त्वत्तोऽन्यमतिरिक्तं देवं न वृणते॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१