मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् ९

संहिता

त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।
यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥

पदपाठः

त्वाम् । इत् । अत्र॑ । वृ॒ण॒ते॒ । त्वा॒ऽयवः॑ । होता॑रम् । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।
यत् । दे॒व॒ऽयन्तः॑ । दध॑ति । प्रयां॑सि । ते॒ । ह॒विष्म॑न्तः । मन॑वः । वृ॒क्तऽब॑र्हिषः ॥

सायणभाष्यम्

हे अग्ने होतारं देवानां ह्वातरमग्निं त्वामित्त्वामेव त्वायवस्त्वत्कामा वेधसः कर्मणां कर्तार ऋत्विजोऽत्रास्मिंल्लोके विदथेषु यज्ञेषु वृणते। प्रार्थयन्ते। कदेत्यत्राह। यद्यदा देवयन्तो देवान्यष्टुं स्तोतुं वेच्छन्तो वृक्तबर्हिषश्छिन्नबर्हिषो हविष्मन्तः संस्कृतहविष्का मनवो मनुष्या ऋत्विजस्ते तुभ्यं प्रयांसि हवींषि दधति धारयन्ति। प्रयच्छन्तीत्यर्थः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१