मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् १२

संहिता

इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तय॒ः सम॑ग्मत ।
व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥

पदपाठः

इ॒माः । अ॒स्मै॒ । म॒तयः॑ । वाचः॑ । अ॒स्मत् । आ । ऋचः॑ । गिरः॑ । सु॒ऽस्तु॒तयः॑ । सम् । अ॒ग्म॒त॒ ।
व॒सु॒ऽयवः॑ । वस॑वे । जा॒तऽवे॑दसे । वृ॒द्धासु॑ । चि॒त् । वर्ध॑नः । यासु॑ । चा॒कन॑त् ॥

सायणभाष्यम्

जातवेदसे जातप्रज्ञाय वसवे वासयित्रेऽस्मा अग्नये मतयः पूजयित्र्य इमा वाचो वसूयवोऽस्मदर्थं धनकामाः सत्योऽस्मदस्मत्तो निर्गत्या समग्मत। आभिमुख्येन सङ्गच्छन्ते। तमिममग्निं प्रीणयन्त्वित्यर्थः। काः पुनस्ताः। सुष्टुतयः शोभनस्तुतिरूपा ऋच ऋगात्मिका गिरो वाचः। तथा यासु वृद्धासु चित् स्वत एव वृद्धास्वपि वर्धनः पुनरपि वर्धयिता सन्नग्निश्चाकनत् स्तोतॄन्कामयते। इमा मतय इत्यन्वयः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२