मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् १३

संहिता

इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।
भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ः ॥

पदपाठः

इ॒माम् । प्र॒त्नाय॑ । सु॒ऽस्तु॒तिम् । नवी॑यसीम् । वो॒चेय॑म् । अ॒स्मै॒ । उ॒श॒ते । शृ॒णोतु॑ । नः॒ ।
भू॒याः । अन्त॑रा । हृ॒दि । अ॒स्य॒ । नि॒ऽस्पृशे॑ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥

सायणभाष्यम्

प्रत्नाय पुराणायोशते सोत्रं कामयमानायास्मा अग्नये नवीयसीं नवतरामन्यैरकृतपूर्वां सुष्टुतिं शोभनस्तुतिं वोचेयम्। अहं वक्ष्यामि। सोऽग्निरस्मदीयां स्तुतिं शृणोतु। किञ्चाहमस्याग्नेर्हृदि हृदये तत्राप्यन्तरा मध्ये निस्पृशे संस्पर्शनाय। गुणैरनुरञ्जनायेत्यर्थः। भूयाः। भूयासम्। व्यत्ययेन मध्यमः। अग्नेर्हृदिस्पृगहं स्यामित्यर्थः। अथवा मम सुष्तुतेरनु प्रवेष्टा भवेति योज्यम्। समानमन्यत्। तत्र दृष्टान्तः। पत्ये पत्युर्हृदयस्य मध्ये सुवासाः शोभनवस्त्रादिना मण्डिता जायोशती कामयमाना यथेष्टतमा भवति तद्वदित्यर्थः॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२