मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९१, ऋक् १४

संहिता

यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥

पदपाठः

यस्मि॑न् । अश्वा॑सः । ऋ॒ष॒भासः॑ । उ॒क्षणः॑ । व॒शाः । मे॒षाः । अ॒व॒ऽसृ॒ष्टासः॑ । आऽहु॑ताः ।
की॒ला॒ल॒ऽपे । सोम॑ऽपृष्ठाय । वे॒धसे॑ । हृ॒दा । म॒तिम् । ज॒न॒ये॒ । चारु॑म् । अ॒ग्नये॑ ॥

सायणभाष्यम्

यस्मिन्नग्नावुक्षण उक्षाणः। वा षपूर्वस्य निगम इति दीर्घविकल्पः। सेचनसमर्था अश्वासोऽश्वा ऋषभासो वृषभाश्च वशाः स्वभाववन्ध्याश्च मेशाश्चावसृष्टासो देवतार्थमवसृष्टाः परित्यक्ताः सन्तोऽश्वमेध आहुता आभिमुख्येन हुता भवन्ति कीलालपे सौत्रामण्यां सुरां पिबते। कीलालमित्युदकनामसु पाठात्। उदकं पिबते सोमपृष्थाय सोमयुक्तः पृष्ठ उपरिभागो यस्य तस्मै सोमपृष्ठाय वेधसे विधात्रे तस्मा अग्नये हृदा हृदयेन चारुं कल्याणीं मतिं स्तुतिं जनये। जनयामि। उत्पादयामि॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२