मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् १

संहिता

य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् ।
शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥

पदपाठः

य॒ज्ञस्य॑ । वः॒ । र॒थ्य॑म् । वि॒श्पति॑म् । वि॒शाम् । होता॑रम् । अ॒क्तोः । अति॑थिम् । वि॒भाऽव॑सुम् ।
शोच॑न् । शुष्का॑सु । हरि॑णीषु । जर्भु॑रत् । वृषा॑ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥

सायणभाष्यम्

यज्ञस्येति पञ्चदशर्चं द्वितीयं सूक्तं मनोः पुत्रस्य शार्यातस्यार्षम् जागतं बहुदेवताकम्। तथा चानुक्रान्तम्। यज्ञस्य शार्यातो मानवो वैश्वदेवं तु जागतमिति। चातुर्विंशिक आरम्भणीयेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम्। सूत्रितं च। ते हि द्यावापृथिवी यज्ञस्य वो रथ्यम्। आ. ७-४। इति। पृष्थाभिप्लवषडहयोर्द्वितीयेऽहन्यपीदं वैश्वदेवनिविद्धानं चातुर्विंशिकेन तृतीयसवनमिति सूत्रकृतातिदिष्टत्वात्॥

हे देवाह् वो यूयं यज्ञस्य नेतारं विश्पतिं मनुष्यानां पालकम् स्वामिनं वा विशां देवानां होतारमह्वातारमक्तो रात्रेरतिथिमतिथिभूतं विभावसुं विविधदीप्तधनं तमग्निं परिचरतेति शेषः। शुष्कासु शुष्कभूतास्वोषधीषु शोचञ्ज्वलन् हरिणीषु हरितवर्णास्वार्द्रास्वोषधीषु जर्भुरद्भक्षयन् कुटिलं गच्छन्वा वृषा कामानां वर्षिता केतुः प्रज्ञापको यजतो यश्टव्योऽग्निर्द्यां दिवमशायत। प्रतिशेते॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३