मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् २

संहिता

इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् ।
अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ॥

पदपाठः

इ॒मम् । अ॒ञ्जः॒ऽपाम् । उ॒भये॑ । अ॒कृ॒ण्व॒त॒ । ध॒र्माण॑म् । अ॒ग्निम् । वि॒दथ॑स्य । साध॑नम् ।
अ॒क्तुम् । न । य॒ह्वम् । उ॒षसः॑ । पु॒रःऽहि॑तम् । तनू॒३॒॑ऽनपा॑तम् । अ॒रु॒षस्य॑ । निं॒स॒ते॒ ॥

सायणभाष्यम्

उभये देवमनुश्या अन्जस्पामञ्जसा रक्षकं धर्माणं धारकमिममग्निं विदथन्य यज्ञस्य साधनं साधयितारमकृण्वत। आकुर्वत। किञ्चारुषस्यारोचमानस्य वायोस्तनूनपातं पुत्रं यह्वं महान्तं पुरोहितमुशसोक्तुं न स्वरश्मिभिरञ्जकमादित्यमिव निंसते। चुम्बयन्ति। आश्रयन्त इत्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३