मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् ३

संहिता

बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।
य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ॥

पदपाठः

बट् । अ॒स्य॒ । नी॒था । वि । प॒णेः । च॒ । म॒न्म॒हे॒ । व॒याः । अ॒स्य॒ । प्रऽहु॑ताः । आ॒सुः॒ । अत्त॑वे ।
य॒दा । घो॒रासः॑ । अ॒मृ॒त॒ऽत्वम् । आश॑त । आत् । इत् । जन॑स्य । दैव्य॑स्य । च॒र्कि॒र॒न् ॥

सायणभाष्यम्

वि पणेरस्माभिर्विविधं पणितव्यस्य स्तुत्यस्याग्नेर्नीथा नीथान्यस्मत्सम्बन्धीनि प्रज्ञानानि बट् सत्यानि स्युरिति मन्महे। वयं कामयामहे। किञ्चास्याग्नेर्वया अस्मदीया अन्नाहुतयेऽत्तवे भक्षनाय प्रहुता आसुर्भवेयुरिति कामयामहे। किञ्च यदा यस्मिन्काले घोरासो घोरा अग्नेर्ज्वाला अमृतत्त्वमविनाशित्वमाशत प्राप्नुवन्ति आदिदनन्तरमेवास्माकमृत्विजो दैव्यस्य देवेशु भवस्य जनस्याग्नेरर्थाय चर्किरन्। किरेयुः। अग्नौ हवींशि प्रक्शिपेयुरित्यर्थः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३