मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् ५

संहिता

प्र रु॒द्रेण॑ य॒यिना॑ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।
येभि॒ः परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ॥

पदपाठः

प्र । रु॒द्रेण॑ । य॒यिना॑ । य॒न्ति॒ । सिन्ध॑वः । ति॒रः । म॒हीम् । अ॒रम॑तिम् । द॒ध॒न्वि॒रे॒ ।
येभिः॑ । परि॑ऽज्मा । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । वि । रोरु॑वत् । ज॒ठरे॑ । विश्व॑म् । उ॒क्षते॑ ॥

सायणभाष्यम्

सिन्धवः स्यन्दनशीला आपो ययिना गमनशीलेन रुद्रेण रुद्रपुत्रेण मरुद्गणेन सह प्र यन्ति। अथ बहुवदाह। तेऽमी मरुतोऽरमतिम् । रमतिर्विरामोऽवसानम् । तद्रहितामपर्यन्तां महीं पृथीवीं तिरो दधन्विरे। तिरस्कुर्वन्तीत्यर्थः। परिज्मा परितो गन्तेन्द्रः परियन् परितो गच्छन् येभिर्यैर्मरुद्गणैः सहोरु ज्रयो बहुवेगं करोतीति शेषः। किञ्च जठरेऽन्तरिक्षे रोरुवच्छब्दं कुर्वन्पर्जन्यो यैर्मरुद्गणैः सह विश्वं भुवनमुक्षते सिञ्चते॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३