मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् ७

संहिता

इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ॥

पदपाठः

इन्द्रे॑ । भुज॑म् । श॒श॒मा॒नासः॑ । आ॒श॒त॒ । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ ।
प्र । ये । नु । अ॒स्य॒ । अ॒र्हणा॑ । त॒त॒क्षि॒रे । युज॑म् । वज्र॑म् । नृ॒ऽसद॑नेषु । का॒रवः॑ ॥

सायणभाष्यम्

ये शशमानासः शशमानाः स्तोतार इन्द्रे स्तुते सति भुजं पालनमाशत प्राप्नुवन्ति। सूरः सूर्ये स्तुते सति दृशीके दर्शनं सर्ववस्तुविषयं प्राप्नुवन्ति। वृषणो वर्षितरीन्द्रे स्तुते पौंस्यं बलं च प्राप्नुवन्ति। किञ्च ये कारवः स्तोतारोऽस्येन्द्रस्यार्हणा पूजनानि नु क्षिप्रं ततक्षिरे प्रकृष्टानि कुर्वन्ति ते स्तोतारो नृषदनेषु नरः कर्तृत्वेन येशु सीदन्ति तिष्ठन्ति तेषु यज्ञेषु युजं सहायमिन्द्रस्य वज्रं प्राप्नुवन्ति॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४