मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् ८

संहिता

सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।
भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा॑धितः ॥

पदपाठः

सूरः॑ । चि॒त् । आ । ह॒रितः॑ । अ॒स्य॒ । री॒र॒म॒त् । इन्द्रा॑त् । आ । कः । चि॒त् । भ॒य॒ते॒ । तवी॑यसः ।
भी॒मस्य॑ । वृष्णः॑ । ज॒ठरा॑त् । अ॒भि॒ऽश्वसः॑ । दि॒वेऽदि॑वे । सहु॑रिः । स्त॒न् । अबा॑धितः ॥

सायणभाष्यम्

सूरः सूर्योऽप्यस्येन्द्रस्य परमेश्वरस्य परमात्मन आज्ञां परिपालयितुं मन्वानो हरितोऽश्वान्प्रेरयतिति शेषः। प्रेरयन्नध्वन्या रीरमत्। आभिमुख्येन रमयति। यः कश्चिद्देवोऽपि सृष्तौ भयते बिभेति स देवस्तवीयसः प्रवृद्धादिन्द्रात्परमात्मनो भयादेव बिभेति। तथा च तैत्तिरीये पठितम्। भीषास्माद्वातः पवते। तै. उ. २-८। इत्यादिना। किञ्च वृष्णः कामानां वर्षितुर्भिमस्य सर्वभयङ्ग्करस्य परमात्मनः परमेश्वरस्य दिवेदिवेऽन्वहमभिश्वस आभिमुख्येन ठ्वसतो जठरादुदरादन्तरिक्षात्सहुरिः सहनशीलोऽबाधितो बाधरहितः सन्। स्तनयति। शब्दं करोति॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४