मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् १०

संहिता

ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।
य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑व॒ः सं चि॑कित्रिरे ॥

पदपाठः

ते । हि । प्र॒ऽजायाः॑ । अभ॑रन्त । वि । श्रवः॑ । बृह॒स्पतिः॑ । वृ॒ष॒भः । सोम॑ऽजामयः ।
य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । वि । धा॒र॒य॒त् । दे॒वाः । दक्षैः॑ । भृग॑वः । सम् । चि॒कि॒त्रि॒रे॒ ॥

सायणभाष्यम्

हि यस्मात्कारणद्वृषभः कामानां वर्षिता बृहस्पतिः सोमजामयोऽन्ये सोमबन्धवस्ते विश्वे देवाः प्रजाया अर्थाय श्रवोऽन्नं व्यभरन्त विभरन्ति वृष्टिद्वारेण पोषयन्ति तस्मात्कारणात्तासां प्रजानां मध्येऽथर्वा नामर्षिः प्रथमः प्रथममेव क्रियमाणैर्यज्ञैर्वि धारयत्। देवान्कर्मयोग्यान्विधृतानकरोत्। अत्र निगमः। यज्ञैरथर्वा प्रथमः प्रथस्तते। इ. १-८३-५। इति। अथ दक्षैर्बलैः सह देवा विश्वे भृगव ऋषयश्च सं चिकित्रते। अथर्वणा कृतं यज्ञं गत्वा पशून्संज्ञातवन्तः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४