मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् ११

संहिता

ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः ।
दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षण॒ः प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥

पदपाठः

ते । हि । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा । नरा॒शंसः॑ । चतुः॑ऽअङ्गः । य॒मः । अदि॑तिः ।
दे॒वः । त्वष्टा॑ । द्र॒वि॒णः॒ऽदाः । ऋ॒भु॒क्षणः॑ । प्र । रो॒द॒सी इति॑ । म॒रुतः॑ । विष्णुः॑ । अ॒र्हि॒रे॒ ॥

सायणभाष्यम्

भूरिरेतसा बहूदके द्यावापृथिवी द्यावापृथिव्यौ यमो देवोऽदितिश्च त्वष्टा देवश्व द्रविणोदा अग्निश्च ऋभुक्षण ऋभवश्च रोदसी रुद्रस्य पत्नी च मरुतो देवाश्च विष्णुश्च एते विश्वे देवाश्चतुरङ्गश्चतुर्भिरग्निभिर्युक्तस्तस्मिन्नराशंसो नराशंसनामधेये यज्ञे प्रार्हिरे। अस्माभिः स्तोतृभिः पूज्यन्ते॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५