मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् १२

संहिता

उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहि॑ः शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ।
सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ॥

पदपाठः

उ॒त । स्यः । नः॒ । उ॒शिजा॑म् । उ॒र्वि॒या । क॒विः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ।
सूर्या॒मासा॑ । वि॒ऽचर॑न्ता । दि॒वि॒ऽक्षिता॑ । धि॒या । श॒मी॒न॒हु॒षी॒ इति॑ । अ॒स्य । बो॒ध॒त॒म् ॥

सायणभाष्यम्

उतापि च नोऽस्माकमुशिजां कामयमानानामृत्विजामुर्वियोर्वीं बह्वीं स्तुतिं कविर्मेधावी भुध्न्यो बुध्नेऽन्तरिक्षे भवः सोऽहिर्देवो हवीमनि हूयन्ते यत्र देवेभ्यो हवींषि तस्मिन्यज्ञे शृणोतु। दिविक्षिता दिवि वसन्तौ विचरन्ता विशेषेण चरन्तौ सूर्यामासा सूर्यचन्द्रमसौ धिया बुद्ध्यास्य स्तोत्रमिदं बोधतम् । बुध्येतां तमी कर्मवती पृथिवी। शमीति कर्मनामसु पाठात्। नहुषी द्यौः। अत्र वाजसनेयकम्। द्यौर्नहुषीयं वै शमी तस्या एष गर्भ इति। हे द्यावापृथिव्यौ युवां स्तोत्रं धिया स्वीयया प्रज्ञया बुध्येतम्। अवगच्छतमित्यर्थः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५