मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् १३

संहिता

प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।
आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ॥

पदपाठः

प्र । नः॒ । पू॒षा । च॒रथ॑म् । वि॒श्वऽदे॑व्यः । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । वा॒युः । इ॒ष्टये॑ ।
आ॒त्मान॑म् । वस्यः॑ । अ॒भि । वात॑म् । अ॒र्च॒त॒ । तत् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । याम॑नि । श्रु॒त॒म् ॥

सायणभाष्यम्

पूषा देवो नोऽस्माकं सम्बन्धि चरथं जङ्गमं प्रावतु। प्रकर्षेण रक्षतु। किञ्च विश्वदेव्यो विश्वदेवहितोऽपां नपाद्वायुरिष्टये यज्ञस्य निष्कृत्यर्थं प्रावतु। चिञ्चात्मानं सर्वेषामात्मभुतं वातं वायुं वस्यो वसीयः प्रशस्यतरमन्नं प्राप्तुम् । अस्मभ्यमन्नं कामयमानमिति शेषः। हे अश्विनाश्विनौ सुहवा स्वाह्वानौ युवां यामनि गमने तदिदं स्तोत्रं श्रुतम्। शृणुतम्॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५