वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।
ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ॥
वि॒शाम् । आ॒साम् । अभ॑यानाम् । अ॒धि॒ऽक्षित॑म् । गीः॒ऽभिः । ऊं॒ इति॑ । स्वऽय॑शसम् । गृ॒णी॒म॒सि॒ ।
ग्नाभिः॑ । विश्वा॑भिः । अदि॑तिम् । अ॒न॒र्वण॑म् । अ॒क्तोः । युवा॑नम् । नृ॒ऽमनाः॑ । अध॑ । पति॑म् ॥
अभयानां संसारभयरहितानामासां विशां मनुष्याणामधिक्षितमन्तर्निवसन्तं स्वयशसमुपार्जितकीर्तिमेनमग्निं गीर्भिः स्तुतिभिर्गृणीमसि। वयं स्तुमः। किञ्चानर्वणमप्रत्यृतां पत्युरपत्यान्तत्वेनाप्रतिगतामदितिमदीनां देवमातरं विश्वाभिः सर्वाभिर्ग्नाभिर्देवपत्नीभिः सह स्तुमः। किञ्चाक्तो रात्रेर्युवानं स्वतेजसा विश्रयितारं चन्द्रमसं स्तुपुः। किञ्च नृमणाः नृषु मनुष्येष्वनुग्राहकमना यः तमादित्यं स्तुमः। अधाथ पतिं सर्वस्य पालकमिन्द्रं स्तुमः॥१४॥