मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९२, ऋक् १५

संहिता

रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् ।
येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥

पदपाठः

रेभ॑त् । अत्र॑ । ज॒नुषा॑ । पूर्वः॑ । अङ्गि॑राः । ग्रावा॑णः । ऊ॒र्ध्वाः । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् ।
येभिः॑ । विऽहा॑याः । अभ॑वत् । वि॒ऽच॒क्ष॒णः । पाथः॑ । सु॒ऽमेक॑म् । स्वऽधि॑तिः । वन॑न्ऽवति ॥

सायणभाष्यम्

अङ्गिरा नामर्षिरार्त्विज्येन वृतः स देवान्स्तौति। अत्रास्मिन्यज्ञे जनुषा जन्मना पूर्वः प्रत्नोऽङ्गिरा नामर्षी रेभत्। देवान्स्तौति। ग्रावाणश्चोर्ध्वा उद्यताः सन्तोऽध्वरं यज्ञसाधनं सोममभि चक्षुः। अभिपश्यन्ति। विचक्षणो विद्रष्टेन्द्रो येभिर्यैर्ग्रावभिरभिषवसंबन्धिभिः शब्दैर्विहाया महानभवत्। हृष्टोऽभूदित्यर्थः। आस्येन्द्रस्य स्वधितिर्वज्रो वनन्वत्युदकवति मार्गे पाथोऽन्नसाधनं सुमेकं शोभनमुदकं निरगमयदिति शेषः॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५