मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् २

संहिता

य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्त्स॑पर्यति ।
यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥

पदपाठः

य॒ज्ञेऽय॑ज्ञे । सः । मर्त्यः॑ । दे॒वान् । स॒प॒र्य॒ति॒ ।
यः । सु॒म्नैः । दी॒र्घ॒श्रुत्ऽत॑मः । आ॒ऽविवा॑साति । ए॒ना॒न् ॥

सायणभाष्यम्

स मर्त्यो मनुष्यो यज्ञेयज्ञे सर्वेषु यज्ञेशु देवान्सर्वान्सपर्यति परिचरति यो दीर्घश्रुत्तमोऽतिशयेन दीर्घस्य बहोः शास्त्रस्य श्रोता यो मनुष्यह् सुम्नैः सुखकरैर्हविर्भिरेनान्देवानाविवासाति परिचरति। असुखकरैर्हविर्भिः कृतमपि कर्म समर्थं न भवतीत्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६