मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् ३

संहिता

विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः ।
विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञिया॑ः ॥

पदपाठः

विश्वे॑षाम् । इ॒र॒ज्य॒वः॒ । दे॒वाना॑म् । वाः । म॒हः ।
विश्वे॑ । हि । वि॒श्वऽम॑हसः । विश्वे॑ । य॒ज्ञेषु॑ । य॒ज्ञियाः॑ ॥

सायणभाष्यम्

हे विश्वेषामिरज्यवो भुवनानामीश्वराः देवानां द्योतमानादिगुणयुक्तानां भवतां महो महद्वार्वरणीयं धनं विद्यत इति शेशः। तदस्मभ्यं दत्तेति भावः। किञ्च विश्वे सर्वे यूयं विश्वमहसो व्याप्ततेजस्काः। किञ्च विश्वे यूयं यज्ञेषु यज्ञिया यष्टव्याः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६