ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑ण॒ः परि॑ज्मा ।
कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ॥
ते । घ॒ । राजा॑नः । अ॒मृत॑स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा ।
कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः॑ । पू॒षणः॑ । भगः॑ ॥
अर्यमा देवो मित्रश्च परिज्मा सर्वतो गामी सर्वत्राप्रतिहतगतिर्वरुणोऽन्यो देवजनश्चर्त्विग्भिः स्तुतो रुद्रश्च पूषणः सर्वस्य पॊषयितारो मरुतश्च भगश्च एते देवा मन्द्राः सर्वैः स्तुत्याः सन्तो नृणां मनुष्याणां कत् सुखं प्रयच्छतेति शेषः। ते सर्वेऽमृतस्यामृतसदृशस्य हविषो राजानो घ। ईश्वराः खलु॥४॥