मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् ५

संहिता

उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ ।
सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्य॑ः ॥

पदपाठः

उ॒त । नः॒ । नक्त॑म् । अ॒पाम् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । सूर्या॒मासा॑ । सद॑नाय । स॒ऽध॒न्या॑ ।
सचा॑ । यत् । सादि॑ । ए॒षा॒म् । अहिः॑ । बु॒ध्नेषु॑ । बु॒ध्न्यः॑ ॥

सायणभाष्यम्

उतापि च हे वृषण्वसू वर्षणधनावश्विनौ युवामपामुदकानां सम्बन्धिनौ सधन्या सधनौ समानधनौ सूर्यामासा सूर्याचन्द्रमसौ बुध्नेष्वन्तरिक्षेषु निवासस्थानेषु मेघेषु यद्योऽहिर्बुध्न्यो देवो सादि सिदति तिष्ठति एषामेभिः सचा सह युवां नक्तं रात्रावहनि चोरुष्यतमिति वक्ष्यमाणेन सम्बन्धः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६