मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् ६

संहिता

उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् ।
म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥

पदपाठः

उ॒त । नः॒ । दे॒वौ । अ॒श्विना॑ । शु॒भः । पती॒ इति॑ । धाम॑ऽभिः । मि॒त्रावरु॑णौ । उ॒रु॒ष्य॒ता॒म् ।
म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । अति॑ । धन्व॑ऽइव । दुः॒ऽइ॒ता ॥

सायणभाष्यम्

उतापि च शुभस्पती शुभस्योदकस्य पती अश्विनाश्विनौ देवौ नोऽस्मान्धामभिरात्मीयैः शरीरैरुरुष्यताम्। रक्षताम्। किञ्च मित्रावरुनावात्मीयैः शरीरैरुरुष्यताम्। रक्षेताम्। यं यजमानं पुरुषममी देवा रक्षन्ति स महो महान्ति रायो धनान्येषते। आभिमुख्येन प्राप्नोति। गच्छति। किञ्च दुरिता दुरितानि शीघ्रमत्यतिगन्तातिक्रान्ता च भवति। तत्र दृष्टान्तः। धन्वेव यथा पथिको निरुदकान्देशानतिक्रामति तद्वदित्यर्थः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७