मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९३, ऋक् ७

संहिता

उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ ।
ऋ॒भुर्वाज॑ ऋभुक्षण॒ः परि॑ज्मा विश्ववेदसः ॥

पदपाठः

उ॒त । नः॒ । रु॒द्रा । चि॒त् । मृ॒ळ॒ता॒म् । अ॒श्विना॑ । विश्वे॑ । दे॒वासः॑ । रथः॒पतिः॑ । भगः॑ ।
ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्ष॒णः॒ । परि॑ऽज्मा । वि॒श्व॒ऽवे॒द॒सः॒ ॥

सायणभाष्यम्

उत चिदपि च रुद्रा रुद्रपुत्रावश्विनाश्विनौ नोऽस्मान्मृळताम्। सुखयताम्। किञ्च रत्थस्पती रथस्य पतिः पूशर्भुर्वाजोऽन्नवान्भगश्च परिज्मा परितो गन्ता वायुश्चेति विश्वे सर्वे देवासो देवाः सुखयन्तु। हे विश्ववेद्सओ विश्ववेदाः सर्वप्रज्ञाः सर्वधना वा हे ऋभुक्षणो महान्तो ब्रह्मादयो देवाः यूयं सुखयत॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७